आपो वा इदमग्रे महत्सलिलमासीत ।
तस्मिन्प्रजापतिः प्रतिष्ठामैच्छत् ।
स एतं वैश्वानरं प्रायणीयमतिरात्रमपश्यत् ।
तमुपादधात् ।
इममेव लोकमस्मिन्सलिलेऽधि तमप्रथयत् ।
यदप्रथयत्तस्मात्पृथिवी ।
तस्मिन्नधि प्रत्यतिष्ठत् ।
तद्वै तम इवासीत् ।
रात्री ह्यह्न उत्तरा ।
स एतत्त्रिवृतमग्निष्टोममपश्यत् ।
तमुपादधादिममेवाग्निमस्यां पृथिव्यामधि ।
तेन ज्योतिषेमाल्ँ लोकान्प्रापश्यत् ।
स एतानष्टावुक्थ्यानष्टातयान्पशून्दिशोऽनुव्यतनोद्वामदेव्यमन्तरिक्षम् । आदित्यमेव दशममहर् । अमुमेव लोकमुत्तरमतिरात्रम् ।
स एतां व्याप्तिं व्याप्नोत् ।
इदं सर्वमभवत् ।
एतामेव व्याप्तिं व्याप्नोतीदं सर्वं भवति य एवं वेद ।
ऋतवो वै पृष्ठ्यष्षडहो । दिशश्छन्दोमा । इमावेव लोकावतिरात्रौ ।
ऋतवो वै पृष्ठ्यष्षडहो । अर्धमासा मासा अहोरात्राणि छन्दोमा । इमावेव लोकावतिरात्रौ ।
अथ यावेतावन्तरावग्निष्टोमाविन्द्रा ग्नी एव तौ ।
तद्यन्नेदीयस्सत्कनीयस्तोमं पूर्वमहस्तस्मादयमग्निर्नेदीयस्सन्म्रदायस्तपति ।
अथ यस्माद्दवीयस्सञ्ज्यायस्तोममुत्तममहस्तस्मादसावादित्यो दवीयस्सन्नोजीयस्तपति ।
यो वै सर्वं द्वादशाहमात्मानमभि सम्पद्यमानं वेद सर्व एनं कामा अभि सम्पद्यन्ते ३१८