सा गायत्र्यनुष्टुभमसृजत ।
सा चतुर्थमहरुदयच्छत् ।
तया चतुर्थमहरकल्पत ।
त्रिष्टुप्पङ्क्तिमसृजत ।
सा पञ्चममहरुदयच्छत् ।
तया पञ्चममहरकल्पत ।
जगत्यतिछन्दसमसृजत ।
सा षष्ठमहरुदयच्छत् ।
तया षष्ठमहरकल्पत ।
तानि षट्पृष्ठान्यासन् । षट्छनांसि ।
तानि द्वन्द्वमकल्पन्त ।
द्वन्द्वमस्मै प्रजाः पशवः कल्पन्ते य एवं वेद ।
गायत्र्या वै प्रथममहस्तायते । त्रिष्टुभा द्वितीयं । जगत्या तृतीयम् । अनुष्टुभा चतुर्थं । पङ्क्त्या पञ्चमम् । अतिछन्दसा षष्ठम् ।
तस्मादतिछन्दसष्षष्ठेऽहनि शस्यन्ते ।
तद्यथा वर्षिष्ठेन गम्भिष्ठे गाधमिच्छेतैवमेव तद्देवा अतिछन्दोभिष् । षष्ठेऽहनि गाधमैच्छन्त ।
अथो वै तर्हीच्छन्तेऽथो षष्ठस्यैवाह्नो व्याप्त्या । उत्तरस्यो एव त्र्यहस्य सन्तत्या अव्यवच्छेदाय ३१७