३१६

प्रजापतिर्यद्बृहद्र थन्तरेऽसृजत । स मन एवाग्रे बृहदपश्यद् । वाचं रथन्तरमभि व्याहरत् ।

तद्यद्वाचं रथन्तरमभि व्याहरत्तस्माद्र थन्तरं पूर्वं योगमानशे ।

अथ यन्मनोऽग्रे बृहदपश्यत्तस्मादु बृहद्र थन्तरे इत्याख्यायते ।

मनो वै पूर्वमथ वाक् ।

मनो वै बृहद् । वाग्रथन्तरम् ।

ब्रह्म वै रथन्तरं । क्षत्रं बृहत् ।

तदिदं मनो वाचमत्यमन्यत । क्षत्रं ब्रह्म ।

तदिदं रथन्तरमवेदति वै मा मन्यतेति ।

तद्वैरूपमसृजत ।

तेन पुरस्तात्पर्यवैत् ।

ते द्वे भूत्वात्यमन्येताम् ।

तदिदं बृहदवेदति वै मा मन्यतेति ।

तद्वैराजमसृजत ।

तेन पुरस्तात्पर्यवैत् ।

ते द्वे भूत्वात्यमन्येतां तदिदं रथन्तरमवेदति वै मा मन्यतेति ।

तच्छाक्वरमसृजत ।

तेन पुरस्तात्पर्यवैत् ।

तानि त्रीणि भूत्वात्यमन्यन्त ।

तदिदं बृहदवेदति वै मा मन्यतेति ।

तद्रै वतमसृजत ।

तेन पुरस्तात्पर्यवैत् ।

तानि त्रीणि भूत्वार्यमन्यन्त ।

तेऽन्तमगच्छताम् ।

तेऽवित्तां समे वै स्वो नान्यदन्यदतीति ।

तानि षट्पृष्ठान्यासंस् । त्रीणि छन्दांसि ।

तानीमानि त्रीणि छन्दांसि षट्पृष्ठानि नानुव्यभवन् ३१६