३१५

या ह खलु वै सपदा छन्दस्सा प्रथममहरुद्यच्छति । विपदा द्वितीयं । नानापदा तृतीयम् । अनुपदा चतुर्थम् । अतिपदा पञ्चमम् । अभिपदा षष्ठम् ।

गायत्री वै सपदा ।

त्रिपदा वै गायत्री ।

त्रय इमे लोकाः ।

त्रिष्टुब्विपदा । एकादशाक्षराणि हि तस्यै पदानि ।

जगती नानापदा द्वादशाक्षराणि हि तस्यै पदानि ।

अनुष्टुबनुपदा ।

अनुपदा हि सा गायत्र्या अक्षरैः ।

अष्टाक्षराणि वै गायत्र्यै पदान्यष्टाक्षराण्यनुष्टुभः ।

पङ्क्तिरतिपदा । पञ्चपदा हि सा ।

अतिच्छन्दा अभिपदाः ।

न हि एतावन्ति कस्यै चनाक्षराणि ३१५