ते गायत्रीमेव दक्षिणां युग्यामकुर्वत । त्रिष्टुभं सव्यां युग्यां । जगतीं सव्यां प्रष्टिम् ।
तेनेमं लोकमभ्यरोहन् ।
तेऽब्रुवञ्ज्यायान्वा अध्वा विपर्यूहामेति ।
ते जगतीमेव दक्षिणां युग्यामकुर्वत । गायत्रीं सव्यां युग्यां । त्रिष्टुभं सव्यां प्रष्टिम् ।
तेनेममन्तरिक्षं लोकमभ्यारोहन् ।
तेऽब्रुवञ्ज्यायान्देवाध्वा व्येव पर्यूहामेति ।
ते त्रिष्टुभमेव दक्षीणां युग्यामकुर्वत । जगतीं सव्यां युग्यां । गायत्रीं सव्यां प्रष्टिम् ।
तेनामुं लोकमभ्यारोहन् ।
एवं वै देवा देवाश्वान्देवरथेषु युक्त्वेमाल्ँ लोकानभ्यारोहन् ।
अभीमाल्ँ लोकानारोहति य एवं वेद ३१४