३१३

वाग्वै यज्ञं ससृजाना साशनायत्सापिपासत् ।

तां देवा अर्वाग्यज्ञाहुत्यातितर्पयिषन् ।

तां नातर्पयन् ।

तामर्वाक्सोमाहुतिहविर्यज्ञैरतितर्पयिषन् ।

तां नैवातर्पयन् ।

त एतं व्यूढच्छन्दसं द्वादशाहं यज्ञमपश्यन् ।

तमाहरन् ।

तेनायजन्त ।

तत एनां छन्दांसि भूतां प्रार्जन् ।

ता अन्यान्यस्यै भागाय धेनुपरिसारमतृप्यन् ।

तस्मात्पशवोऽन्योन्यस्य भागाय धेनुपरिसारं तृप्यन्ति ।

सातृप्यत् ।

स य एवमेतां वाचश्च छन्दसां च तृप्तिं वेद टृप्यत्यात्मना तृप्यत्यस्य प्रजा ।

देवा वै दे । विश्वान्देवरथेषु युक्त्वेमाल्ँ लोकानभ्यारोहन् ।

छन्दांसि वाव देवाश्वा । स्तोमा देवरथाः ३१३