३१२

अथ ह कबन्ध आथर्वणे केशी दार्भ्य उवास ।

अथ ह तर्हि समूढान्येव छन्दांस्यासुर्न व्यूढानि ।

तस्मै ह कबन्ध आथर्वणः केशिने दार्भ्ययैतं व्यूढछन्दसं द्वादशाहं प्रोवाच त्रिरेव गायत्रीं तर्पयतात्त्रिस्त्रिष्टुभं त्रिर्जगतीम् ।

तवैव प्रजाया अन्ये जीवितमभिध्यातारो । न तव प्रजा इति ।

तेन हेजे ।

ततो ह वा इदमर्वाचीनं व्यूढानि छन्दांसि ।

तस्मादनाढ्यानामपि सतां पञ्चालानामभ्येवान्ये जीवितं ध्यायन्ति ।

तस्यैतौ श्लोकौ

कस्मादूर्ध्वा भूमेर्यन्ति सर्गाः कस्मात्तिर्यञ्चोऽन्वन्तरिक्षम् ।

कस्मादर्वाञ्चो दिव उत्तरस्यै सूर्यस्य रश्मीननु यन्ति सृष्टाः

गायत्री त्रिवृत वसाना सा त्रिष्टुभं नुनुदेऽन्तरिक्षात् ।

सा जगतीमायतनाद्दिवोऽधि तस्मादर्वाञ्चः प्रवहन्ति सर्गाः ३१२