प्रजापतिं प्रजास्समृजानं मुखतः पाप्मासिनोत् ।
सोऽकामयताप पाप्मानं हनीयेति ।
स एतं गायत्रमुखं प्रथमं त्रियहमपश्यत् ।
तेन मुखतः पाप्मानमपाहत ।
तं मध्यतोऽसिनोत् ।
स एतं गायत्रमध्यं द्वितीयं त्रियहमपश्यत् ।
तेन मध्यतः पाप्मानमपाहत ।
तं पदोरसिनोत् ।
स एतं गायत्रोत्तमं तृतीयं त्र्यहमपश्यत् ।
तेन पत्तः पाप्मानमपाहत ।
तं पदोरसिनोत् ।
स एतं गायत्रोत्तमं तृतीयं त्र्यहमपश्यत् ।
तेन पत्तः पाप्मानमपाहत ।
अप पाप्मानं हते य एवं वेद ।
स्वरान्तेन वै त्र्यहेण प्रजापतिर्मृत्योरात्मानमत्रायत । निधनान्तेन प्रजाम् । इळान्तेन पशून् ।
एतावद्वावास्ति यदात्मा प्रजा पशवः ।
तद्यत्सदत्रायत तत्सत्रस्य सत्रत्वम् ।
त्रायत एनं सर्वस्मात्पाप्मनो य एवं वेद ।
स्वरान्तेन वै त्रियहेण प्रजापतिर्देवानसृजत । निधनान्तेन पितॄन् । इळान्तेन मनुष्यान् ।
तद्यत्स्वरान्तेन देवानसृजत तस्मात्तेऽमृताः ।
अमृतेन हि तान्प्राणेनासृजत ।
अथ यन्निधनान्तेन पितॄनसृजत तस्मादु ते निधनसंस्थाः ।
अथ यदिळान्तेन मनुष्यानसृजत पशवो वा इळा तस्माद्य एव पशुमान्भवति तं मनुष्या उपसमायन्ति ३११