३१०

गायत्रमुखो वै प्रथमस्त्र्यहः ।

तस्मादयमग्निरस्मिल्ँ लोक ऊर्ध्वो दीदाय ।

गायत्रमध्यो द्वितीयस्त्र्यहः ।

तस्मादथ वायुरस्मिन्नन्तरिक्षे तिर्यङ्पवते ।

गायत्रोत्तमस्तृतीयस्त्र्यहः ।

तस्मादसावर्वाङादित्यो दिवस्तपति ।

एता वै देवेषवः प्रणिहिता अनिशिता अनिलयन्तीरेषु लोकेषु सर्वं पाप्मानमपसेधन्तीस्तिष्ठन्त्यग्निः पृथिव्यां । वायुरन्तरिक्ष । आदित्यो दिवि ।

एता अस्य सर्वं पाप्मानमपघ्नत्यो यन्ति य एवं वेद ।

एताभिर्वै विजितिभिर्विविक्रिभिर्विजिता विविक्ता इमे लोका यथायथम् ।

यस्मादेते समाने यज्ञक्रतौ सन्तोऽथ नाना भवन्ति तस्माद्ध वै देवाः पितरो मनुष्यास्समाने लोके सन्तोऽनुसन्ददर्शिरे ।

एताभिर्ह विजितिभिर्विविक्तिभिर्विजिता विविक्ता यथायथम् ३१०