तद्यदाशुस्त्रिवृदिति । यथा क्षिप्रः पक्ष्येवमेष यत्त्रिवृत्स्तोमः ।
अथ द्य भान्तः पञ्चदश इति क्षत्रं हि तत् ।
क्षत्रमुव इभाति ।
अथ यद्व्योम सप्तदश इति । प्रजापतिर्हि सः ।
प्रजापतिर्वै व्योम ।
अथ यद्धरुण एकविंश इत्यसौ हि स आदित्यः ।
एतस्मिन्वा इदं सर्वं धृतम् ।
अथ यदोजस्त्रिणव इति । मरुतो हि सः ।
ओजो वै वीर्यं मरुतः ।
ओजो वीर्यं त्रिणवः ।
अथ यत्प्रतिष्ठा त्रयस्त्रिंश इत्य् । अन्तो हि सः ।
अथ यद्ब्रह्म चतुर्विंश इति । गायत्री हि सा ।
ब्रह्म वै गायत्री ।
अथ यत्क्षत्रं चतुश्चत्वारिंश इति त्रिष्टुब्भि सः ।
क्षत्रमु वै त्रिष्टुप् ।
अथ यद्विवर्तो विशां स्तोमोऽष्टाचत्वारिंश इति । जगती हि सा ।
विड्वै जगती ।
विश उ वा इदं सर्वं अनुष्टुप् ।
इदमेव प्रायणम् । इदमुदयनम् ।
तस्मादित एव प्रयन्त्यत उद्यन्ति ।
अग्निरेव प्रायणम् । आदित्य उदयनम् ।
अनुष्ठ्यैतं लोकं प्रजानन्नेति य एवं वेद ३०९