३०८

अग्निरेव प्रथममहर् । इन्द्रो द्वितीयं । प्रजापतिस्तृतीयं । बृहस्पतिश्चतुर्थं । मरुतः पञ्चमं । विश्वे देवाष्षष्ठं । वसवस्सप्तमं । रुद्रा अष्टमम् । आदित्या नवमं । प्रजापतिरेव दशममहः ।

इयमेव दिक्प्रायणम् । इयमुदयनम् ।

तस्मादसावादित्य इतोऽस्तमेतीत उदेति ।

एतदेव प्रायणं चोदयनं चानुसञ्चरति ।

आशुस्त्रिवृद् । भान्तः पञ्चदशो । व्योम सप्तदशो । धरुण एकविंश । ओजस्त्रिणवः । प्रतिष्ठा त्रयस्त्रिंशो । ब्रह्म चतुर्विंशः । क्षत्रं चतुश्चत्वारिंशो । विवर्तो विशां स्तोमोऽष्टाचत्वारिंशः । प्रजापतिरेव दशममहः ३०८