३०७

तूष्णीं स्तुतं वाचानुशंसति ।

तस्माद्यन्मनसाधिगच्छति तद्वाचा वदति ।

तस्मादोषधयो मूलतो जायन्तेऽग्रतः पच्यन्ते ।

तदाहुस्समिष्टेषु पत्नीसंयाजेषु स्तोतव्या३मसमिष्टेषू३इति ।

असमिष्टेष्वित्याहुः ।

प्रतीचीष्वेवासु तद्गर्भान्दधति ।

स्त्री बलं च ह तु भवति पापवस्यसं च ।

समिष्टेष्वेव स्तोतव्यं पापवस्यसस्य व्यावृत्त्यै ।

अथो ह न तथा स्त्री बलं भवति ।

अथो हासु तत्पराचीष्वेव गर्भान्दधति ।

प्रत्यञ्चश्च वै पराञ्चश्च मनुष्यास्सम्भवन्ति ।

तस्मात्समिष्टेष्वेव स्तोतव्यमिति ।

औदुम्बरीं समारभन्ते -ऊर्ग्वा अन्नमुदुम्बर -ऊर्ज एवान्नाद्यस्यावरुद्ध्यै ।

वाचं यच्छन्ति ।

वाग्वै ब्रह्म ।

वाचमेव तद्ब्रह्म यज्ञमात्मसु यच्छन्ति ।

इह धृतिरिह स्व धृतिर्मैरमो मैरमतिरिति ।

यच्चित्तं या धृतिर्यन्मनो या वाक्तान्येवैतदास्तसु यच्छन्ति ।

यदस्तमिते विसृजेरन्नहर्भ्रातृव्यलोकमुच्छिंष्युः ।

यदनस्तमिते विसृजेरन्रात्रिं भ्रातृव्यलोकमुच्छिंष्युः ।

अर्धास्तमित आहवनीयं परेत्य विसृजन्ते ।

उभाभ्यामेव तदहोरात्राभ्यां द्विषन्तं भ्रातृव्यमन्तर्यन्ति ।

उभाभ्यामेवाहोरात्राभ्यां द्विषन्तं भ्रातृव्यमन्तरेति य एवं वेद ।

तदु वा आहुरस्तमित एव विसृज्यम् ।

अहोरात्रे वै परिवर्तमाने संवत्सरमाप्नुतः ।

संवत्सरो यज्ञाः ।

यज्ञमेवैतदाप्त्वा विसृजन्त -उपसृजन्धरुणं मात्रे मातरं धरुणो धयन्रायस्पोषमिषमूजमस्मासु दीधरत्स्वाहे

ति ।

स यथा न्योकसं गां संयुज्य प्रार्जयेदेवमेवैतद्वाचं चं यजमानं च संयुज्य प्रार्जयन्ति ।

यथा हैनया वदति । तथैभ्योऽनपक्रमणी भवति ।

ते यं कामं कामयेरंस्तं ध्यायेयुः ।

स हैवैभ्यः कामस्समृध्यते ।

सुब्रह्मण्यया वाचं विसृजन्ते ।

ब्रह्म वै सुब्रह्मण्या ।

ब्रह्म वाक् ।

ब्रह्मणैव तद्वाचं विसृजन्ते ३०७