३०६

महाव्रतभाजनं वा एता ऋचः ।

स यावन्महाव्रतेनावरुन्द्धे तावदवरुन्द्ध एताभि ऋग्भिस्तुष्टुवानः ।

मनसो वा अन्यदहरासीद्वाचोऽन्यत् ।

तद्यन्मनसोऽहरासीत्तद्देवा सङ्गृह्योर्ध्वा स्वर्गं लोकमुदक्रामन् ।

अथ यद्वाचोऽहरासीत्तदेतदहरभवत् ।

तेनास्मिल्ँ लोके प्रजया च पशुभिश्च प्रत्यतिष्ठन् ।

तद्यन्मनसा स्तुवन्ति तस्यैवाह्नोऽनुख्यात्यै ।

चतुर्होतॄन्होतानुव्याचष्टे ब्रह्म वै चतुर्होतारः ।

ब्रह्म वा अस्यै स्तोत्रशस्त्राणामाप्तुमर्हति ।

एतान्यु ह वै देवानां गुह्यानि नामानि यच्चतुर्होतारः ।

तान्येव तत्प्रकाशं गमयति ।

तान्येनं प्रकाशं गतानि प्रकाशतां गमयन्ति ।

गच्छति प्रकाशतां य एवं वेद ।

तद्यं ब्राह्मणमलं यशसे सन्तमथ यशो नार्च्छेत्सोऽरण्यं परेत्य ग्रन्थीनुद्ग्रथ्य । तेभ्यश्चतुर्होतॄन्व्याचक्षीत । ब्राह्मणं वोपद्र ष्टारं कृत्वा ।

एतान्यु ह वै देवानां गुह्यानि नामानि यच्चतुर्होतारः ।

तान्येव तत्प्रकाशं गमयति ।

तान्येनं प्रकाशं गतानि प्रकाशतां गमयन्ति ।

गच्छति प्रकाशतां य एवं वेद ३०६