गायत्रीषु स्तुवन्ति गायत्री वै छन्दसामयातयाम्न्ययातयामताया एव ।
तिसृषु स्तुवन्ति त्रयो वा इमे लोका -एषां लोकानां समष्ट्यै ।
अथो त्रयो वै प्राणापानव्यानाः ।
तानेवैतत्सन्तत्य तेषु प्रतिष्ठायोदृचमश्नुवते ।
गायत्रं साम भवत्ययातयाम वै गायत्रमयातयामताया एव ।
अथो मनो वै गायत्रम् ।
मनसैवैनत्तत्समृद्धयन्ति । मनसोपावर्तयन्ति । मनसा हिङ्कुर्वन्ति । मनसा प्रस्तौति । मनसादिमादत्ते । मनसोद्गायति मनसा प्रतिहरति । मनसोपद्र वति । मनसा निधनमुपयन्त्यसमाप्तस्य समाप्त्यै ।
यद्वै देवा यज्ञस्य वाचा न समाप्नुवंस्तदस्य मनसा समाप्नुवन् ।
तद्यन्मनसा स्तुवन्त्यसमाप्तस्यैव समाप्त्यै ।
रसो वा एतस्याह्नोऽत्यनेदत् ।
तम्मनसैव पर्यगृह्णन् ।
एष वै स रसः ।
तद्यन्मनसा स्तुवन्ति रसस्यानतिनेदाय ३०५