३०४

अपशव्या इव वै युग्मन्त स्तोमा श्लक्ष्णा इव हि समा इव ।

तद्यत्त्रिवृतं स्तोममन्ववस्यन्ति मिथुनत्वायैव प्रजात्यै ।

ऊनातिरिक्ताद्वै मिथुनात्प्रजाः पशवः प्रजायन्ते ।

प्र प्रजया पशुभिर्जायते य एवं वेद ।

इयं वै पृथिव्यरिक्षेवा लोकमासीत् ।

साकामयत पृश्निं वर्णं पुष्येयमिति ।

सैतम्मन्त्रमपश्यद्

आयं गौः पृश्निरक्रमीद्

इति ।

ततो वा इयं पृथिवी पृश्निं वर्णमपुष्यत् ।

पृश्निं ह वै वर्णं प्रजया पशुभिः पुष्यति य एवं देव ।

तदाहुरूर्ध्वा वा एते स्वर्गलोकं रोहन्ति ये यजन्ते ।

त ईश्वराः प्रआञ्चोऽतिपत्तोरिति ।

तद्यत्सर्पराज्ञीषु स्तुवन्ति -इयं वै सर्पराज्ञी -अस्यामेवतत्प्रतितिष्ठन्ति ।

इयं वै सर्पतां राज्ञी ।

न ह वा एनं सरीसृपं हिनस्ति य एवं वेद ३०४