सम्पदं ह तु लोभयन्ति ।
ब्रह्मसाम्न एव नव स्तोत्र्या उपादायात्रोपदध्यात् ।
न सम्पदो यन्त्य् । उभयेषु स्तोमेषु प्रतितिष्ठन्ति ये चायुजो ये च युग्मन्तः ।
तद्यथान्तरीषे तिष्ठन्विमुञ्चेदेवमेवैतद्वामदेव्येन सर्वाणि स्तुतशस्त्राण्यन्ततो विमुच्यन्ते ।
तदाहुर्व्युच्या३ ं न व्युच्या३मिति ।
न व्युच्यमित्याहुः ।
आजिं वा एते यन्ति य एतदहरागच्छन्ति ।
तेषामेष हीयते य उपहन्यते ।
स यथा हीनमुपादधीत तादृक्तत् ।
यो वै हीनमुपाधत्त उभौ वाव तौ हीयेते ।
अथो प्रजापतिं वावैतेनाह्ना परिवेविषन्ति ।
तद्यन्न व्याहुः को हि श्रेयसः परिवेषणमववदितुमर्हति ।
यो वै श्रेयसः परिवेषणमववदति यया वै स तमार्त्या कामयत तयैनं निनयति ।
तदाहुः ब्रह्मैव विब्रूयादिति ।
ब्रह्म वै ब्रह्मा ।
ब्रह्मैव तद्यज्ञं व्याह ।
अथो आहुरुद्गातैव विब्रूयादिति ।
प्रजापतिर्वा उद्गाता ।
प्रजापतिरेव तद्यज्ञं व्याह ।
अथो आहुर्यजमान एव विब्रूयादिति ।
यज्ञी वै यजमानः ।
यज्ञ एव तद्यज्ञं व्याह ।
अथो यथाकामं वै स्वं परिवेषणं प्रशास्तीति ।
अथो आहुः प्राङेवोत्क्रम्य क्रोशेदित्यमी अकुर्वतेत्यमी अकुर्वतेति ।
तदेव व्युक्तं चाव्युक्तं चेति ।
तदु वा आहुर्व्युच्यमेव ।
यदव्युच्यमाने तूष्णीमासीरन्विच्छिद्येरन्वै यज्ञाद्यज्ञीयस्यैवानार्तिरुपेत्याव्युच्यमेवेति ।
तद्यावता व्याह तद्धोत्रे प्राह ।
तद्धोतानुष्टुभमभि सम्पादयति समिदं दशममहरपादीति ।
संव्याहरन्ति यदेवात्रोनाक्षरासु स्तुवन्ति यदतिरेचयन्ति ।
तदेवैतत्प्रजापतिमभि सम्पादयन्ति सम्परिवेषणं प्रशास्ति ३०३