गौरीवितिर्वा एतं शाक्त्यस्त्रयस्त्रिंशं स्तोममपश्यदुभयेषां पशूनामवरुद्ध्यै ये च ग्राम्या ये चारण्याः ।
ततो वै स उभयान्पशूनवारुन्द्ध ।
तद्यत्त्रयस्त्रिंशं स्तोमं नान्तर्यन्ति तस्मात्त्रयस्त्रिंश स्तोमोऽन्ततः क्रियत । उभयेषामेव पशूनामवरुद्ध्यै ।
पुरुषो ह वा एष परस्ताद्धितस्तिष्ठति ।
दश वै पुरुषस्य हस्त्या अंशूनामवरुद्ध्यै ।
पुरुषो ह वा एष परस्ताद्धितस्तिष्ठति ।
दश वै पुरुषस्य हस्त्या अङ्गुलयो । दश पद्या । दश प्राणा । द्वे प्रतिष्ठे । आत्मा त्रयस्तिंशः ।
पराञ्च आरण्याः पशवः प्रेरते ।
तस्मादभ्यासृणतो मृगं श्रयन्ते ।
अभ्यासृणतो ह्येष एतत्क्रियते ।
प्रजापतेर्वा एत एकवीराः पुत्रा । यद्द्वादशाहस्य स्तोमाः ।
तदाहुश्चतुर्विंशमेतदहः ।
तत्सर्वमेव चतुर्विंशं कार्यम् । एतेषाम्प्रजापतेः पुत्राणामेकवीराणामविलोमायेति ।
यद्वेवैतास्त्रयस्त्रिंशदक्षरा भवन्ति तेन त्रयस्त्रिंशं स्तोमं नान्तर्यन्ति ।
भूयांसि तु रूपाण्यपराध्यन्ते ।
इतराण्येव भूयांसि रूपाणि ।
त्रयस्त्रिंश एव कार्यः ।
त्रयस्त्रिंशद्वै सर्वा देवताः ।
सर्वास्वेवैतद्देवतासु यज्ञस्यान्ततः प्रतितिष्ठन्ति ।
अथो एष वाव दृढः प्रतिष्ठितस्सर्वदेवत्य स्तोमो यत्र त्रयस्त्रिंशः ।
तस्मात्त्रयस्त्रिंश एव स्तोमोऽन्ततः कार्य इति ३०२