३०१

तासु वामदेव्यम् ।

स्तुतशस्त्रयोर्ह खलु वा एषा शान्तिर्यद्वामदेव्यम् ।

यद्ध वै किं च यज्ञस्य मिथ्योल्वणं क्रियते तदेतेनैव शमयित्वोत्तिष्ठन्ति ।

मत्यं वा एतद्यज्ञस्य यद्वामदेव्यम् ।

स यथा स्थूललोष्ठम्मत्येन शम्येदेवमेवैतद्वामदेव्येन सर्वाणि स्तुतशस्त्राणि शमयन्ति ।

प्रजापतिर्ह खलु वा एतत्स्तोत्राणां य वामदेव्यम् ।

यथा ह वा इदं प्रजापतौ सर्वा जातविद्याः प्रतितिष्ठन्त्येवं ह वै वामदेव्ये सर्वाणि स्तोत्राणि प्रतितिष्ठन्ति ।

योनिर्वै वामदेव्यम् ।

तद्दशमेऽहन्योनेश्च्यावयन्ति ।

तस्माद्दशमास्या गर्भा योनेश्च्यवन्ते प्रजात्यै ।

प्राणा वै वामदेव्यम् ।

तदाहुर्वीव वा एते प्राआनिरृध्यन्ते ये यज्ञीयस्य कर्मणोऽतिपादयन्ति । यदि वा नातिपादयन्ति ।

को हि तद्वेद यदि तेऽति वा पादयन्ति न व्क्ता

तद्यदत्र वामदेव्यं भवति प्राणैरेव तत्समृध्य्नते ।

सद्ध खलु वै वामदेव्यं स्तोत्राणां । सदग्निर्देवतानां । सद्विराट्छन्दसां । सत्त्रयस्त्रिंश स्तोमानाम् ।

सत्येवैतत्सन्निधायोत्तिष्ठन्ति ।

सदेव भवन्ति ।

एतां ह खलु वा एतद्द्वादशाहयाजी चतुष्पदीं वेदासन्दीमविव्याधिनीमन्ततोऽभ्यारोहति वामदेव्यं सामाग्निं देवतां विराजं छन्दस्त्रयस्त्रिंशं स्तोमम् ।

अभि हैतामारोहति य एवं वेद ३०१