३००

द्वादशाहेन वै देवा ऊर्ध्वा स्वर्गं लोकमायन् ।

तानसुरा रक्षांस्यन्वसचन्त ते छन्दांसि पश्चात्तान्यकुर्वत ।

तान्यभिविच्छिदान्ययुक्ष्वक्षरेष्वश्रयन्त ।

तत एतानि नाच्यावयन् ।

तस्मादयुज स्तोमा वीर्यावत्तराः ।

तेषामेषा त्रिष्टुम्निष्कुर्यादपराजयेताम् ।

पराजितं वा एतच्छन्दः ।

पराजित एवैतच्छन्दसि यज्ञस्यान्ततः प्रतितिष्ठति ।

तास्त्रयस्त्रिंशदक्षरा भवन्ति ।

त्रयस्त्रिंशद्वै सर्वा देवताः ।

सर्वास्वेवैतद्देवतासु यज्ञस्यान्ततः प्रतितिष्ठन्ति ।

स ता विराजो लोमशा भवन्त्यन्नं वै विराड् विराज एवान्नाद्यस्यावरुद्ध्यै ।

ता आग्नेय्यो भवन्ति ।

मुखं मुख्यमेवैतदुद्गातात्मानं च यजमानं च करोति ।

मुख्यो हाग्र्योऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद ३००