२९९

तासु वाजजित् ।

अन्नं वै वाजः ।

यदा वै गौरश्वः पुरुषोऽन्नस्य सुहितो भवत्यथ स वाजी भवति ।

देवासुरा अन्नाद्येऽस्पर्धन्त ।

ते देवा अकामयन्त वृञ्जीमह्यन्नाद्यमसुराणामिति ।

त एतत्सामापश्यन् ।

तेनास्तुवत ।

ते वाजजिगीवा विश्व धनानी त्येवासुराणां यद्धनं ये पशवो यदन्नाद्यमासीत्तदवृञ्जत ।

तदेव वाजजितो वाजजित्त्वम् ।

तदेतदन्नाद्यस्यावरुद्धिस्साम ।

अवान्नाद्यं रुन्द्धे वृङ्क्ते द्विषतो भ्रातृव्यस्य यद्धनं ये पशवो यदन्नाद्यं य एवं वेद ।

तद्दशाक्षरणिधनं भवति ।

एकाक्षरणिधनेन वै प्रथममहः कल्पते । दशाक्षरणिधनेन दशमम् ।

तद्यद्दशाक्षरणिधनं दशमेऽहनि भवति । तेनैव दशाहानि कल्पन्ते ।

अथो एतां दशाक्षरामेव विराजमन्नाद्यमवरुद्ध्यान्तत उत्तिष्ठन्ति २९९