२९८

अभये ह खलु वा एष दीक्षतेऽभये यजतेऽभय उत्तिष्ठति य एवं विद्वानेताभि ऋग्भि स्तुते ।

तामेतां परोक्षमनुष्टुभं कुर्वन्ति ।

यत्प्रत्यक्षमनुष्टुभं कुर्युः परां परावतं यजमाना गच्छेयुर् । न प्रतितिष्ठेयुः ।

तद्यत्परोक्षमनुष्टुभं कुर्वन्ति प्रतिष्ठित्यै ।

तासु श्यावाश्वमुक्तब्राह्मणम् ।

तद्वाङ्निधनं भवति ।

तदाहुर्यन्ति वा एते तृतीयसवनाद्ये यज्ञायज्ञीयं मध्यन्दिनमभि प्रत्याहरन्तीति ।

तद्यद्वाङ्निधनं भवति । तेनैव यज्ञायज्ञीयस्य रूपान्न यन्ति । तेन तृतीयसवनान्न यन्ति ।

तस्मादु हैतत्सामैतस्मादह्नो नान्तरित्यम् ।

सूर्यस्येव रश्मयो द्रा वयित्नव

इति सूर्यवतीर्भवन्ति रक्षसामेवापहत्यै ।

मत्सरासः प्रसुपस्साकमीरते ।

तन्तुं ततं परि सर्गास आशवो नेन्द्रा दृते पवते धाम किं चन

इति न हीन्द्रा दृते पवते धाम किं चन ।

उपो मतिः पृच्यते सिच्यते मध्वित्युप वा अयमद्य लोक उपश्व इममेवैतेन लोकमनु प्रजायन्तेऽस्मिन्नेवैतल्लोके पशून्प्रतिष्ठापयन्ति ।

उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम् ।

अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत

इति परिवतीर्भवन्त्यन्तस्य रूपम् ।

अन्तो ह्येतदहः २९८