२९७

इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानः परां परावतमगच्छत् ।

तदनुष्टुब्वै परा ।

परावत्स तामेव प्राविशत् ।

तस्यै द्वादशाक्षराणि प्राञ्च्युदौहद्द्वादशोर्ध्वानि ।

अथ याष्टाक्षरा मध्ये गायत्री तां प्राविशत् ।

स तामेव प्राविशत् ।

तत्तस्यै द्वादशाक्षराणि ।

ब्रह्मा गायत्री ।

ब्रह्मैव तन्मध्यतः प्राविशत् ।

स एतमेव संवत्सरमुभयतः पर्यौहत ।

इन्द्र ग्रहो वा एता ऋचः ।

इन्द्र ग्रहमेवैतत्प्रपद्योत्तिष्ठन्ति ।

तस्मादु हैना अभिचरन्वा भ्रातृव्यवान्वा कुर्वीत ।

इन्द्र ग्रहो वा एता ऋचः ।

इन्द्र ग्रहमेवैतत्प्रपद्य द्विषन्तं भ्रातृव्यमभिभवति २९७