ता एता भवन्ति
पवस्व मधुमत्तम । इन्द्र मच्छ सुता इम
इति ।
ऋजीषं वा एतद्दुग्छं धीतं यातयाम यत्तृतीयसवनम् ।
तस्मादिन्द्रो बीभत्समान उदक्रामत् ।
धीतमिव ह्यासीत् ।
तस्मै वै देवाः पवस्वे त्येवापवयन् ।
मधुमत्तम
इति मधुमदकुर्वन् ।
इन्द्रा य सोम क्रतुवित्तमो मदः ।
महि द्युक्षतमो मदः
इत्यभिपूर्वमेवास्मै मद्वदकुर्वन् ।
इन्द्र मच्छ सुता इम
इति यथाभिवत्यानयेदेवं वा एतत्पदम् ।
पावमान्यस्सत्य षन्द्रि यो भवन्ति वीर्यवतीः ।
तस्मादेता एवोष्णिक्ककुभः कार्याः ।
तासु सभमुक्तब्राह्मणम् ।
अथ पौष्कलमुक्तब्राह्मणम् ।
अथैता भवन्ति
पर्यू षु प्र धन्व वाजसातय
इति पिपीलिकामध्यानुष्टुभः परिवतीरन्तस्य रूपम् ।
अन्तो वा अनुष्टुप्छन्दसाम् ।
आनुष्टुभमेतदहः २९६