२९५

स्वादिष्ट्या मदिष्ट्ये

त्यार्भवस्य पवमानस्य मद्वतीर्गायत्र्यो भवन्ति ।

रसो वै मदः ।

धीतमिवैतद्यत्तृतीयसवनम् ।

तद्यदेता मद्वतीर्भवन्ति । रसमेवास्मिन्नेतद्दधत्य् । षवैनदेतेन प्याययन्ति ।

तासु गायत्रमुक्तब्राह्मणम् ।

अथ संहितं द्व्यक्षरणिदह्नं प्रतिष्ठायै ।

द्विपाद्वै यजमानः प्रतिष्ठित्यै ।

तस्यर्चा निधनमुपयन्ति ।

पशवो वा ऋक् । पशवो रथन्तरं । पशूनामेवावरुद्ध्यै ।

अथोष्णिक्ककुभौ ।

उष्णिक्ककुब्भ्यां वा इन्द्रो वृत्राय वज्रं प्राहरत् ।

तमस्तृणुत ।

वज्रो वा उष्णिक्ककुभौ ।

वज्रेणैव तद्द्विषन्तं पाप्मानं भ्रातृव्यं स्तृणुते य एवं वेद ।

ककुभि पराक्रमतोष्णिहा प्राहरत् ।

तस्मात्ककुभो मध्यमान्यक्षराणि भूयिष्ठानि ।

पराक्रममाणो ह्यस्या अक्षराणि समौहत् ।

तस्मादुष्णिह उत्तमान्यक्षराणि भूयिष्ठानि ।

परो गुरुरिव हि वज्र । आरम्भणतोऽणीयान् ।

सा ककुबब्रवीद्विलिष्ठा वा अहमस्मीति ।

पराक्रममाणो वै मेऽक्षराणि समौहीत् । पूर्वां मां प्रयुञ्जतामिति ।

अथोष्णिगब्रवीदथ वै मां पूर्वामाचक्षन्ता इति ।

तथेति ।

तस्मिन्समपादयेताम् ।

पूर्वप्रयोगमन्यावृणीत । पूर्वा ख्यानमस्या ।

तस्मादेने एवं प्रयुञ्जते ।

तस्मादुष्णिक्ककुभावित्याख्यायते २९५