तास्वभीवर्तः ।
देवासुरा अस्पर्धन्त ।
ते देवा अकामयन्ताभीमानसुरान्भवेमेति ।
त एतमभीवर्तमपश्यन् ।
तेनासुरानभ्यवर्तन्त ।
यदभ्यवर्तन्त तदभीवर्तस्याभीवर्तत्वम् ।
तद्यदत्राभीवर्तो भवति वज्रो वा अभीवर्तो वज्रेणैव तद्द्विषन्तं भ्रातृव्यमभिवृत्योत्तिष्ठन्ति ।
तस्यैकाक्षरं निधनं भवति ।
एकाक्षरा वै वाक् ।
प्रतिकूल इव वा इत स्वर्गो लोकः ।
स्वर्गो ह्येष लोको यद्दशममहः ।
तद्यदेकाक्षरं निधनं भवति यथा दृढां मेथीं निहन्यात्तादृगेवैतदनपभ्रंशाय ।
अथ कळेयम् ।
अग्निर्वै रथन्तरम् ।
विश्वेदेवाः कालेयम् ।
अथैष स्वर्ग एष लोको विश्व एव देवाः ।
स्वर्ग एव तल्लोके विश्वेषु देवेषु प्रतितिष्ठन्ति २९४