एते ह खलु वा अर्क्योदामनीये एते रथन्तरस्याक्षरे व्यतिषक्ते ।
एताभ्यं एवैतद्द्विषन्तं भ्रातृव्यमुपोभ्योत्तिष्ठन्ति ।
तदाहुर्व्यूढमेतदहा३स्समूढा३मिति ।
उभयमिति ब्रूयाद् । व्यूढं च समूढं चेति ।
सामभिर्व्यूढं छन्दोभिस्समूढमिति ।
एता भवन्ति
मा चिदन्यद्वि शंसते
ति मासानेवैतदर्धमासानभिवदति ।
अथो तेषामेव प्रजापतिमनु प्रजायत ।
इन्द्र मिति स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत
अवक्रक्षिणं वृषभं यथाजुवं गां न चर्षणीसहम् ।
इति गोमतीः पशुमतीर्भवन्ति पशूनामेवावरुद्ध्यै ।
तासु मैधातिथमुक्तब्राह्मणम् ।
उदु त्ये मधुमत्तमा
इत्युद्वतीरुत्थानीयेऽहन्भवन्त्य् । अथो स्वर्गस्यैव लोकस्याभ्युत्क्रान्त्यै ।
स्वर्गो ह्येष लोको यद्दशममहः २९३