२९२

अथ रथन्तरम् ।

ब्रह्म वै रथन्तरम् ।

ब्रह्मण्येवैतत्प्रतितिष्ठन्तो यन्ति ।

तद्गायत्रीषु रथन्तरं भवति । योन्यामेवैतद्रे तः प्रतिष्ठायन्ति ।

अनुष्ठ्यास्य रेतस्सिक्तं प्रजायते य एवं वेद ।

गायत्रं ह खलु वै रथन्तरं गायत्री छन्दः ।

तद्यद्गायत्रीषु रथन्तरं पृष्ठं भवति । स्वेनैवैनं तदायतनेन समर्धयन्ति ।

तेनैभ्यस्समृद्धेन स्वायां जनतायामृद्धुकं भवति ।

त्रीणि वा एतानि सम्यञ्चि सन्धीयन्ते गायत्री छन्दश् । चतुर्विंश स्तोमो । रथन्तरं साम ।

तद्यदेतानि सम्यञ्चि सन्धीयन्ते समृद्ध्या एव ।

समस्मा ऋध्यते य एवं वेद २९२