पशवो वै यज्ञायज्ञीयम् ।
आत्मा मध्यन्दिनः ।
पशुमान्ह्येव यज्ञंयज्ञमाहरते ।
तद्यद्यज्ञायज्ञियम्मध्यन्दिनमभि प्रत्याहरन्ति आत्मन्नेवैतत्पशून्प्रतिष्ठापयन्ति ।
अथैता भवन्त्या जागृविर्विप्र ऋतं मतीनामित्यावतीरुत्थानीयेऽहन् ।
यत्प्रवतीः कुर्युः पराञ्चोऽतिपद्येरन् ।
तद्यदावतीर्भवन्त्यनतिपादायैव ।
तदाहुरपेव वा एते भ्रंशन्ते य आवतीरुत्थानीयेऽहन्कुर्वन्तीति ।
तद्यत्
सोमो मीढ्वमभि नो ज्योतिषावीद्
इति भवत्यभिक्रान्त्या एवानपभ्रंशाय ।
तासु गौरिवीतम् ।
प्रजा वै पशवो गौरिवीतम् । आत्मा मध्यन्दिनः ।
तद्यद्गौरिवीतं मध्यन्दिनमभि प्रत्याहरन्त्यात्मन्नेवैतत्प्रजां पशून्प्रतिष्ठापयन्ति ।
श्वस्तनं वै गौरिवीतम् । आत्मा मध्यन्दिनः ।
तद्यद्गौरिवीतं मध्यन्दिनमभि प्रत्याहरन्त्यात्मन्नेवैतच्छ्वस्तनं प्रति ष्ठापयन्ति ।
रसो वै गौरिवीतम् । आत्मा मध्यन्दिनः ।
तद्यद्गौरिवीतं मध्यन्दिनमभिप्रत्याहरन्त्य् । आत्मन्नेवैतद्र सं प्रतिष्ठापयन्ति २९१