तेजो वै यज्ञायज्ञीयम् । आत्मा मध्यन्दिनः ।
तद्यद्यज्ञायज्ञीयं मध्यन्दिनमभि प्रत्याहरन्त्यात्मन्नेवैतत्तेजः प्रतिष्ठापयन्ति ।
यज्ञायज्ञीयेन वै पूर्वेष्वहस्सु गर्भान्दधतो यन्ति ।
तद्दशमेऽहन्योनेश्च्यावयन्ति ।
तस्माद्दशमास्या गर्भा योनेश्च्यवन्ते प्रजात्यै ।
तं मध्यन्दिनमभि प्रत्याहरन्ति ।
आत्मा वै मध्यन्दिनः प्रजैषा ।
तद्यद्यज्ञायज्ञीयं मध्यन्दिनमभि प्रत्याहरन्त्य् । आत्मन्नेवैतत्प्रजां प्रतिष्ठापयन्ति ।
मध्यन्दिनाद्वै देवा यज्ञायज्ञीयेनोर्ध्वा स्वर्गं लोकमुदक्रामन् ।
तद्यदुष्णिक्ककुभावुत्तर भवतो । बृहती पूर्वा पुरुष छन्दसं ककुप् । स्वर्गो लोको बृहती स्वर्ग एव तल्लोके प्रतिष्ठाय स्वर्गं लोकमारोहन् ।
देवासुरा यज्ञ आजिमायन् ।
दशमस्याह्नः ।
ते यज्ञायज्ञीयमेव काष्ठामकुर्वत ।
ते देवा अकामयन्त वयमिममाजिमुज्जयेमेति ।
ते यज्ञायज्ञीयम्मध्यन्दिनमभि प्रत्याहरन्न् । अतोऽन्तिकादुज्जेष्याम इति ।
एतदु ह वै देवानां देवक्षेत्रं यत्पवमानः ।
ततो वै ते तमाजिमुदजयन् ।
आजिमिवैते यन्ति य एतदहरागच्छन्ति ।
तद्यदत्रयज्ञायज्ञीयं भवत्युज्जित्या एव ।
उज्जयति य एवं वेद २९०