२८९

तावन्तरा यज्ञायज्ञीयं भवति ।

पशवो वै यज्ञायज्ञीयम् ।

एतांस्तान्पशूनुत्सिध्य च निषिध्य चोत्तिष्ठन्ति ।

प्रजापतेर्वा एतौ प्राणापानौ ।

यदुत्सेधनिषेधो भवतः प्राणापानाभ्यामेव तत्समृध्यन्ते ।

पापवस्यसस्य ह खलु वा एते विहारणं सामनी ।

राजसभमेतद्यद्दशमह्नाम् ।

उच्च वै पापीयांसं सभायामतिवदन्तं सेधन्ति नि च सेधन्ति ।

तद्यदुत्सेधनिषेधौ भवतः पापवस्यसस्यैवोत्सिद्ध्यै च निषिद्ध्यै च ।

वाग्वै यज्ञायज्ञीयम् ।

तदन्तरोत्सेधनिषेधौ भवति ।

आत्मा वै वाक् ।

प्राणापानावुत्सेधनिषेधौ ।

तद्यद्यज्ञायज्ञीयमन्तरोत्सेधनिषेधौ भवति । प्राणापाणापानावुत्सेधनिषेधौ ।

तद्यद्यज्ञायज्ञीयमन्तरोत्सेधनिषेधौ भवति । प्राणापानाभ्यामेवैतदुभयत आत्मानं परिगृह्णते ।

तस्मात्प्राणापानाभ्यां वाक्परिगृहीता २८९