२८८

उत्सेधनिषेधावेव सतोबृहतीषु स्यातां । यज्ञायज्ञीयं भविष्यद्बृहत्याम् ।

तथा हाभ्यावर्ता भवन्त्यपराचीः ।

तदाहुर्न चतुर्थाय छन्दसे माध्यन्दिनः पवमानः ।

तत्स्थानश्चतुर्थमिव वा एतच्छन्दः क्रियत इति ।

तद्यद्बृहतीतरा भवति बृहतीतरा तेन समानच्छन्दः ।

तासूत्सेधनिषेधौ ।

उत्सेधेन वा अङ्गिरसः पशूनुत्सिध्य निषेधेन निषिध्योदतिष्ठन् ।

उत्सेधेनैवैतत्पशूनुत्सिध्य निषेधेन निषिध्य उत्तिष्ठन्ति २८८