तदाहुर्न बुभूषन्भूतबृहतीभि स्तुवीत ।
भूत एवैताभि स्तुवीत न बभूषन्निति ।
भूता इव वा एता यासां द्वादशाक्षराणि पदानि ।
अथेमा भविष्यद्बृहतयः पुनरादायेन बृहत्यो भवन्ति ।
तस्माद्भूत एव भूतबृहतीभि स्तुवीत न बुभूषन्निति ।
तदु वा आहुर्यावद्वै कृत्वो यजते तावद्बुभूषति तावत्कामयते श्रेयान्स्यां श्रेयान्स्यामिति ।
तस्मादुभयीरेव कार्या एतयोरुभयोः कामयोरुपाप्त्या इति २८७