ताः प्रत्नवतीर्भवन्ति ।
प्रजापतिर्वै प्रत्नः ।
प्रजापतावेव तत्प्रतितिष्ठन्ति ।
अथो स्वर्गो वै लोकः प्रत्नः ।
स्वर्ग एव तल्लोके प्रतितिष्ठन्ति ।
तासां सर्वासां समावदक्षराणि पदानि भवन्ति ।
तद्यत्समावदक्षराणि पदानि भवन्ति तत्सतोबृहतीनां सतोबृहतीत्वम् ।
सर्वतो ह वै बृहद्भवति य एवं वेद ।
तदु होवाच यामनो श्रातलायनो यदा वा एतदहरागच्छन्त्यथ मुह्यन्ति ।
अतोऽन्या बृहतीः कुर्वते ।
पुनानस्सोम धारये
त्येव बृहती कार्या ।
एषा वै ज्ञाता बृहती ।
यद्ध वै बहवो यन्तो ज्ञातमुखं कृत्वा यन्ति सर्वे वाव ते ज्ञाता भवन्ति ।
तद्यत्
पुनानस्सोम धारये
ति बृहती भवति तेनैवैतदहर्ज्ञातं क्रियते ।
भूयांसि तु रूपाण्यपराध्यन्ते ।
इतराण्येव भूयांसि रूपाणि २८६