२८५

अथैताः

प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यम्

इति सतोबृहतयो भवन्ति ।

अनुष्टुब्वै यज्ञमसृजत ।

वाग्वा अनुष्टुप् ।

प्रजापतिर्वा अनुष्टुप्छन्दः ।

सोऽब्रवीद्यज्ञं सृष्ठ्वा छन्दांसि पुत्रका वैन्दध्वमिति ।

तान्येतयाविन्दन्त ।

यत्त्रिपदा तेन गायत्री ।

उष्णिक्ककुभौ तयाविन्दन्त ।

यद्द्वादशाक्षराणिपदानि तेन जगती ।

तेनो एवानुष्टुप् ।

अक्षरैरेव बृहत्यविन्दत ।

यद्दोहवती तेन पङ्क्तिः ।

आयतनेन त्रिष्टुप् ।

यद्विश्ववती तेन सर्वाणि छन्दांसि ।

तान्येतयैवाविन्दन्त ।

विन्दते य एवं वेद ।

सर्वेषां वा एषा छन्दसां रसस्तेजस्सम्भृतम् ।

सर्वेषामेवैतच्छन्दसां रसे तेजस्यपराजिते छन्दसि यज्ञस्यान्ततः प्रतितिष्ठन्ति २८५