अथाभीकम् ।
देवा वा अकामयन्ताभीकं नश्शिरमाप उपस्पृशेयुरिति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
ततो वै तानभीकं शिवमाप उपास्पृशन् ।
तदाभीकस्याभीकत्वम् ।
अभीकं ह वा एनं शिवमाप उपस्पृशन्ति य एवं वेद ।
ऋषयो वै तपस्तेपाना अशोचन् ।
तेऽकामयन्ताभीकं नश्शिवमाप उपस्पृशेयुरिति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
ततो वै तानभीकेऽभ्यवर्षत् ।
तद्वेवाभीकस्याभीकत्वम् ।
तदापो वै शान्तिः ।
शुशुचाना इवैते तेपाना इव भवन्ति य एतदहरागच्छन्ति ।
तद्यदत्राभीकं भवति शुच एवापहत्यै ।
तद्वा आभीकमिति कवत्प्राजापत्यं सामाह्नो रूपेण समृद्धम् ।
यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यते ।
समस्मा ऋध्यते य एवं वेद २८४