उच्चा ते जातमन्धसे
त्युद्वतीरुत्थानीयेऽहन्भवन्त्यथो स्वर्गस्यैव लोकस्याभ्युत्क्रान्त्यै ।
स्वर्गो ह्येष लोको यद्दशममहः ।
स न इन्द्रा य यज्यवे वरुणाय मरुद्भ्य
इति मरुत्वतीर्भवन्ति ।
मरुत्वद्वै मध्यन्दिनस्य रूपम् ।
मध्यन्दिनस्यैव तद्रू पान्न यन्ति ।
एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् ।
सिषासन्तो वनामहे
इति सिषासद्वतीर्भवन्ति ।
सिषासन्तो ह्येवैतेनाह्ना स्वर्गं लोकं गच्छन्ति ।
तासु गायत्रमुक्तब्राह्मणम् ।
अथामहीयवम् ।
प्रजापतेर्वा आमहीयवम् ।
प्राजापत्यमेतदहः ।
तद्यदत्रामहीयवं प्राजापत्येऽहन्क्रियतेऽहरेव तद्रू पेण समर्धयन्ति ।
तेनैभ्यस्समृद्धेन स्वायां जनतायामृद्धुकं भवति ।
अथाजीकमुज्जित्यै ।
देवासुरा यज्ञ आजिमायन् ।
ते देवा अकामयन्तोदिममाजिं जयेमेति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
ततो वै ते तमाजिमुदजयन् ।
आजिमिवैते यन्ति य एतदहरागच्छन्ति ।
तद्यदत्राजीकं भवत्युज्जित्या एव ।
उज्जयति य एवं वेद ।
तद्वा आजीकमिति कवत्प्राजापत्यं सामाह्नो रूपेण समृद्धम् ।
यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यत ।
समस्मा ऋध्यते य एवं वेद २८३