२८२

अथैतान्याप्रीऋ आज्यानि भवन्ति ।

प्रजापतिः प्रजा असृजत ।

स सृष्ट्वा रिरिचानोऽमन्यत ।

स एतान्याप्रीराज्यान्यपश्यत् ।

तैरात्मानमाप्रीणीतायातयामतायै ।

रिच्यन्ते इव वा एते य एतदहरागच्छन्ति ।

तद्यदेतान्याप्रीऋ आज्यानि भवन्त्यात्मानमेवैतैर्यजमाना आप्रीणतेऽयातयामतायै ।

अनिरुक्तान्याज्यानि भवन्ति छन्दसामनभिधर्षाय । पापवस्यसस्य विवक्त्यै ।

वि पाप्मना विच्यते य एवं वेद ।

षन्द्रा ग्नमुत्तमं पदं निराह छन्दसामप्रणाशाय यज्ञस्यानुख्यात्यै ।

अनुख्यातनैव यज्ञेन स्वर्गं लोकं समश्नुवते ।

तदाहुर्यत्सर्वेभ्योऽहोभ्यो दशममहस्सम्मरन्त्य् । अथ केनैषां छन्दोमा अनन्तरिता भवन्तीति ।

स्तोमेनेति ब्रूयात् ।

चतुर्विंशं सप्तममहर्भवति । चतुर्विंशं दशममहः ।

अथो यदेवैतत्समय्येकमाज्यं भवति तेनो एवेति २८२