गायत्रमुखो वै प्रथमस्त्रियहः ।
तस्मादयमग्निरूर्ध्वो दीदाय ।
गायत्रमध्यो द्वितीयस्त्रियहः ।
तस्मादयं वायुस्तिर्यङ्पवते ।
गायत्रोत्तमस्तृतीयस्त्रियहः ।
तस्मादसावर्वाङादित्यस्तपति ।
देवासुरा अस्पर्धन्त ।
तेऽब्रुवन्यो नस्त्रिरनवानं गायत्र गायति स न इमांश्च लोकान्सञ्जयति प्राणापानव्यानांश्चेति ।
सोऽयास्य आङ्गिरसस्त्रिरनवानं गायत्रमगायत् ।
तेनेमांश्च लोकान्समजयत्प्राणापानव्यानांश्च ।
सं इमांश्च लोकाञ्जयति प्राणापानव्यानांश्च य एवं विद्वांस्त्रिरनवानं गायत्रं गायति ।
यो वा अग्निष्टोमेन दशाहं कल्पमानं वेद कल्पतेऽस्मै प्रातस्सवनेनैव प्रथमस्त्र्यहः । कल्पते माध्यन्दिनेन द्वितीयस् । तृतीयसवनेन तृतीयोऽग्निष्टोमसाम्नैव दशममहः कल्पते ।
कल्पतेऽस्मै य एवं वेद २८१