क्व ते सन्तायन्त इत्याहुः ।
दशमेऽहन्निति ब्रूयात् ।
तृचैरेकर्चानुभयतस्सन्तन्वन्ति । प्राणानामेव सन्तत्या अव्यवच्छेदाय ।
अभि वा एता अन्यान्यस्यै लोकं ध्यायन्ति ब्रह्म क्षत्रस्याभिध्यायति । क्षत्रं विशो । विड्ब्रह्मणः ।
ता अन्यान्यस्यै लोकमभिध्यायन्तीः कामं गमयन्ति ।
यत्काम एना आहरते समस्मै स काम ऋध्यते प्रसृतछन्दा वै प्रथमस्त्रियहः ।
तेन सोऽयातयामा क्रियते ।
वि द्वितीयस्य छन्दांसि पर्यूहन्ति ।
तेन द्वितीयस्त्रियहोऽयातयामा क्रियते ।
वि तृतीयस्य छन्दांसि पर्यूहन्ति ।
तेनैव तृतीयस्य त्रियहोऽयातयामा क्रियते २८०