पूर्वैरहोभिर्वाचं विप्रयुञ्जते ।
तां यदसम्पाद्योत्तिष्ठेयुर्व्यृद्धेनोत्तिष्ठेयुः ।
तामेवैतत्सम्पादयन्ति ।
अन्वहं वा एते वरुणस्य पाशे बध्यन्ते ये यजन्ते ये सत्रमासते ।
यद्यत्प्रत्यपक्रामन्तो यन्ति वरुणस्य पाशानेवैतद्विष्यमाणा यन्ति । स्तोत्रियैर्वा इतो रेतो दधतो यन्त्य् । अनुरूपैरत्र प्रतिपद्यन्ते । प्र तज्जनयन्ति ।
प्र प्रजया पशुभिर्जायते य एवं वेद ।
प्रायणीयेनैवाह्ना द्वादशाहो युज्यते दशमेनाह्ना विमुच्यते ।
येन वै योक्त्रेणाश्वमश्वतरं युञ्जन्ति तेनैवैनं पुनर्विमुञ्चन्ति ।
तद्या अमूः पुरस्तान्नव स्तोत्रीयास्ता एवैतदुपरिष्टात् ।
शम्या उदस्यन्ति ।
तस्मात्पशुर्यथैव युज्यते तथा विमुच्यते ।
तस्मादु योगक्षेमः कल्पते ।
यान्प्रायणीयस्याह्नस्तृचान्विच्छिन्दन्ति २७९