२७८

तासूद्वंशीयमुक्तब्राह्मणम् ।

तस्य पुरस्तान्निधनस्य प्रतिहारमुपयन्ति ।

प्रस्तावप्रतिहाराभ्यां वै यजमानो धृतः ।

अतीता इवैतर्हि भवन्ति ।

तद्यत्पुरस्तान् निधनस्य प्रतिहारमुपयन्त्यनतिपादायैव ।

तत्स्वारं भवति ।

अभि दशममह स्वरति ।

स्वारमेतद्भवति ।

स्वरेण श्वो भूते प्रतिपद्यन्ते ।

स यथा समात्समं सङ्क्रामेद् । यथा प्राणेन प्राणं सन्दध्यात् । तादृक्तत् २७८