२७७

इहैवा शृण्व एषां कशा हस्तेषु याद्वादान् ।

नि यामैश्चित्रामृञ्जताइ

नि यामैश्चित्रं चित्रमार्ञ्जातायि एहि या औहो तमेहि यौ हो एहि यौ हो वा एही त्येव स्वर्गे लोके उपाह्वयन्त ।

ततो वै स प्रतिसत्रिभिस्समगच्छत ।

स एतेनैव साम्ना स्तुत्वा स्वर्गं लोकमारोहत् ।

आ घा ये अग्निमिन्धातायि स्तृणन्ति बर्हिरानुषक् ।

येषामिन्द्रो युवा इहा मवावुवो वा साखो हा

इत्येव स्वर्गं लोकमन्वारोहत् ।

तदेतत्स्वर्ग्यं साम ।

अश्नुते स्वर्गं लोकं य एवं वेद ।

यद्विध्मवाहोऽपश्यत्तस्मादैध्मवाहमित्याख्यायते ।

अथ त्रैककुभमुक्तब्राह्मणं त्रीन्द्रि यं साम ।

षन्द्री ऋच षन्द्रं सामेन्द्र इति निधनं भवति ।

त्रीणि पुरुष इन्द्रि याण्यात्मा प्रजा पशवः ।

तान्येवैतेनात्मन्परिगृह्णीते ।

गायन्ति त्वा गायत्रिणो अर्चन्त्यर्कमर्किणः ।

ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे

इति यद्वै शतवत्सहस्रवत्तच्छन्दोमानां रूपम् ।

पशवो वै छन्दोमाः २७७