२७६

अथेध्मवाहम् ।

ऋषयो वै स्वर्गं लोकं यन्त इध्मवाहं समिद्धारं परेतमरण्य एकमजहुः ।

सोऽकामयतानूत्पतेयं स्वर्गं लोकं प्रतिसत्रिभिस्सङ्गच्छेयेति ।

स षक्षत हन्त प्रति सत्रिण एव स्तवानि ।

त एव मा स्तुतास्तथा करिष्यन्ति यथैषामुपश्रोष्यामीति ।

स एतं तृचमपश्यत् ।

तेनैनानस्तौदा घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।

येषामिन्द्रो युवा सखा

बृहन्निदिध्म एषां भूरि शस्तं पृथु स्वरुः ।

येषामिन्द्रो युवा सखा

अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः ।

येषामि द्रो युवा सखा

इति ।

तेऽस्मै स्तुतास्तथाकुर्वन्यथैषामुपाश्रोषत् ।

तेषां ह कशानां वदन्तीनामुपशुश्राव ।

स एतत्सामापश्यत् ।

तेनास्तुत २७६