अथ यज्ञायज्ञीयमुक्तब्राह्मणम् ।
अथ दैवानीकम् ।
देवासुरा अस्पर्धन्त ।
ते देवा अकामयन्ताग्निनैवातीकेनासुराञ्जयेमेति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
भद्रो नो अग्निराहुत
इत्यग्निमेवानीकमकुरुत ।
भद्रा रातिस्सुभग भद्रो अध्वरः ।
भद्रा उत प्रशस्तयः
भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः ।
इति समत्स्वेवैनानसहन्त ।
अव स्थिरा तनुहि भूरि शर्धताम्
इति यदेवैषां वीर्यं यद्बलमासीत्तदेतेनावाघ्नन् ।
वनेमा ते अभिष्टय
इत्येवैनानभ्यतिष्ठन् ।
ततो वै तेऽग्निनैवानीकेनासुरानजयन् ।
तदेव दैवानीकस्य दैवानीकत्वम् ।
तदेतद्विजिति भ्रातृव्यहा साम ।
विजियते हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद २७५