२७४

तासु श्रुधीयम् ।

प्रजापतिर्यज्ञमसृजत ।

तं देवेभ्यः प्रायच्छत् ।

स क्षयाद्विभ्यत्प्राद्र वत् ।

ते देवा अकामयन्त शृणुयान्न इति ।

त एतत्सामापश्यन् ।

तेनैनं श्रोधियेत्यन्वह्वयन् ।

सोऽशृणोत् ।

तमब्रुवन्नभि न आवर्तस्वेति ।

क्षयाद्वै बिभमीति ।

नेत्यब्रुवन् ।

तस्मै वै मे श्रद्धां कुरुतेति ।

तस्मै श्रोधियेत्येव श्रद्धामकुर्वन् ।

तमेह्या इत्येव न्यह्वयन्त ।

ततो वै तेभ्यो यज्ञो नोदक्रामत् ।

तत एवानुपावर्तत ।

उक्त्रान्त इवैतर्हि यज्ञो भवति नवमेऽहन् ।

तद्यदत्र श्रुधीयं भवति । समेवैनमेतेन यज्ञं निह्वयन्ते ।

तस्माच्छ्रोधियेत्येव प्रथमायां कुर्याच्छ्रोधेमेत्युत्तरयोः ।

अथो यस्मै जीवातुं कामयेत । तमेतनैव निह्वयेत २७४