अथाकूपारम् ।
अकूपारो वै कश्यपः कलिभिस्सह समुद्र मभ्यवैषत् ।
तस्मिन्प्रतिष्ठामैच्छत् ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स समुद्रे प्रतिष्ठामविन्दतेमामेव पृथिवीम् ।
ततो ह स्म वै तस्य कलयः पृष्ठ आसते ।
तदेतत्प्रतिष्ठासाम ।
प्रतितिष्ठति य एवं वेद ।
समुद्रो वै छन्दोमाः ।
कश्यपो वै समुद्र मतिपारयितुमर्हति ।
तद्यदत्राकूपारं भवति समुद्र स्यैवातिपारणाय ।
यद्वकूपारः कश्यपोऽपश्यत् । तस्मादाकूपारमित्याख्यायते ।
अथैता द्विपदो भवन्त्युक्तब्राह्मणाः ।
ता एता भवन्ति
पवस्व सोम महे दक्षाये
ति ।
महद्ध्येतदहर्यदष्टाचत्वारिंशम् ।
तासु विधर्मोक्तब्राह्मणम् ।
तच्चतुरक्षरणिधनं भवति चतुष्पदा वै पशवः ।
पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै ।
उपो षु जातमप्तुरम्
इति जनद्वतीर्भवन्ति ।
जनद्वद्वै जगत्यै रूपम् ।
जागतमेतदहः ।
गोभिर्भङ्गं परिष्कृतम् ।
इन्दुं देवा अयासिषुः
अर्षा नस्सोम शं गवे धुक्षस्व पिप्युषीमिषम् ।
वर्धा समुद्र मुक्थ्यमिति गोमतीः पशुमतीर्भवन्ति । पशूनामेवावरुद्ध्यै ।
पशवो हि छन्दोमाः ।
तमिद्वर्धन्तु नो गिर
इति वृद्धं ह्येतदहर्यदष्टाचत्वारिंशम् २७३