अथ साध्रं सिद्ध्या एव ।
तन्मध्येनिधनं भवति प्रतिष्ठायै ।
समुद्रं वा एतेनारम्भणं प्रप्लवन्ते य आर्भवं पवमानमुपयन्ति ।
तद्यन्मध्येनिधनं भवति प्रतिष्ठित्या एव ।
देवा वा अकामयन्त कृतङ्कृतं नस्सिध्येदिति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
ततो वै तेषां कृतङ्कृतमसिध्यत् ।
कृतङ्कृतं नस्सिध्येदिति सत्रमासते ।
कृतङ्कृतं हैवैभ्यस्सिध्यति ।
यद्वेवैषामेतेन साम्ना कृतङ्कृतमसिध्यत्तस्मात्साध्रमित्याख्यआयते ।
सध्रिर्वैरूपः पशुकामस्तपोऽतप्यत ।
स एतत्साम्पआश्यत् ।
तेनास्तुत ।
स एतामिळामुपैत् ।
पशवो वा इळा ।
ततो वै स पशूनवारुन्द्ध ।
तदेतत्पशव्यं साम ।
अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।
यदु सध्रिर्वैरूपोऽपश्यत्तस्मात्साध्रमित्याख्यायते २७२