२७१

उत्तिष्ठत । कामान्ब्रूध्वं । नो वाव वस्तस्याशास्ति यदमुं लोकं जयेतेति ।

अथ ह प्रेणी सौमाहितः पापक आस ।

स होवाच सप्तानामेव स्यो बस्तानां दुर्वृषतां वृणीते ।

यां यां वच्छाब्रूवीय । सा सा त्यं कामयतादिति ।

अथ ह मधुच्छन्दा वैश्वामित्र उवाच ब्राह्मणमुखमेवाहं वृणा इति ।

अथ हासितो दैवल उवाचैतमेवाहं चमसमवेक्षा इति ।

स होवाचैष एवैषामेको व्रतयति ।

तं दैवावेक्ष्यैतत्साम ददर्श ।

तेनास्तुत ।

राये अग्ने महे त्वा दानाय समिधीमहि ।

ईळिष्वा हि महे वृषं द्यावा होत्राय पृथिवी

इति ।

द्यावापृथिवी सर्व इमे लोकाः ।

ततो वै स सर्वानिमाल्ँ लोकाननुसमचरत् ।

स ह पूर्वाह्ण एव देवानां समित्यामास । मध्यन्दिने मनुष्याणां द्रुपदस्य वार्द्ध्रविष्णस्य । अपराह्णे पितृणाम् ।

तदेतत्स्वर्ग्यं साम ।

सर्वानिमाल्ँ लोकाननुसञ्चरत्य् । अश्नुते स्वर्गं लोकं य एवं वेद ।

यद्वसितो दैवलोऽपश्यत् । तस्मादासितमित्याख्यायते २७१