२७०

अथासितम् ।

ऋषयो वा अब्रुवन्नेतेममुपरिश्येनं स्वर्गं लोकं जिगीसाम । यदस्मिन्नेतेऽथर्वाण इति ।

प्रेणी सौभाहितो मधुच्छन्दा वैश्वामित्रोऽसितो दैवलो य उ चान्ये तस्य हान्तिकं दिदीक्षते । तेषां ह ज्योगेव यजमानानां नोपशुश्रुवुर्बहू येव वर्षाणि ।

तेषामु होपशुश्रुवुराश्रावयति वै । वषट्करोति वा इति ।

स होद्वन्तो नामाथर्वणामेकश्चमसहस्त उपावरुरोह ।

तान्होवाच किङ्कामा आध्व इति ।

इममुपरिश्येनं स्वर्गं लोकं जिगीषाम । यस्मिन्नेतेऽथर्वाण इति ।

तान्होवाचेथ ग्रामं जघनेना३इति ।

इमो हीति ।

कस्मै कामायेति ।

पथ इति ।

ओमिति होवाच । न नु वस्तत्स्वर्ग्यमिति ।

अथ ह चमसमवेक्षाञ्चक्रे ।

स होवाचाश्नीथ मांसा३मिति ।

अश्नीमो हीति ।

कस्मै कामायेति ।

चक्षुषश्च प्राणानां चेति ।

ओमिति होवाच । नो वाव वस्तत्स्वर्ग्यमिति ।

अथ ह चमसमेवावेक्षाञ्चक्रे ।

स होवाचोऽपेथ स्त्रिया३इति ।

उपेमो हीति ।

कस्मै कामायेति ।

प्रजायै सन्तत्या अव्यवच्छेदायेति ।

ओमिति होवाच । नो वाव वस्तत्स्वर्ग्यमिति ।

अथ ह चमसमेवाचक्षाञ्चक्रे ।

स होवाच वदथानृता३मिति ।

वदामो हीति ।

कस्मै कामायेति ।

स्त्रीकाम्या वा नर्मकाम्या वा सखीकाम्या वेति ।

ओमिति होवाच २७०