२६९

अथ यद्वाहिष्ठीयम् ।

अग्निर्वै देवेभ्यो हव्यं नवमादह्नो दशममहरभ्यतिवोढुं नाकामयत ।

ते देवा अकामयन्ताति न इदमग्निर्हव्यं वहेदिति ।

त एतत्सामापश्यन् ।

तेनैनमस्तुवन्यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो ।

महिषीव त्वद्र यिस्त्वद्वाजा उदीरते

तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत् ।

उतो ते तन्यतुर्यथा स्वानो अर्त त्मना दिवः

एवो अग्निं वसूयवस्सहसानं ववन्दिम ।

स नो विश्वा अति द्विषः पर्षन्नावेव सुक्रतुः

इति ।

यथा नावातिपारयेदेवमेवैभ्य एतदग्निर्हव्यं नवमादह्नो दशममहरभ्यत्यपारयत् ।

एष ह वा एतदतिपारयितुमर्हति ।

तद्यदत्र यद्वाहिष्ठीयं भवति यज्ञस्यैव सन्तत्यै ।

समस्मै यज्ञस्तायते तस्याग्निर्हव्यं पारयति य एवं वेद ।

तदूर्ध्वेळं भवति बृहतो रूपं बार्हतेऽहन् ।

तेन वै रूपसमृद्धम् २६९